Bhagavadgita !

Chapter 7

Gnyana Vignyana yoga !

Sloka Text in Devanagari

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

भगवद्गीत
सप्तमोऽध्यायः
विज्ञानयोगः

श्री भगवानुवाच

मय्यासक्त मनाः पार्थ योगं युञ्जन्मदाश्रयः।
असंशयं समग्रं मां यथा ज्ञास्यसि तत् शृणु॥1||

ज्ञानं ते अहं सविज्ञानं इदं वक्ष्याम्यशेषतः।
यत् ज्ञात्वा नेह भूयोऽन्यज्ञातव्यमवशिष्यते ||2||

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये |
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥3||

भूमिरापोऽनलो वायुः खं मनोबुद्धिरेवच |
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ||4||

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।
जीवभूतं महाबाहो ययेदं धार्यते जगत् ||5||

एतद्योनीनि भूतानि सर्वाणीत्युपधारय |
अहं कृत्स्नस्य जगतः प्रभवः प्रळयस्तथा ||6||

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय |
मयि सर्वमिदं प्रोतं सूत्रे मणि गणाइव॥7||

रसोऽहमप्सु कौन्तेय प्रभास्मि शशि सूर्ययोः।
प्रणवः सर्व वेदेषु शब्दः खे पौरुषं नृषु॥8||

पुण्यो गन्धः पृथिव्यां च तेजशास्मि विभावसौ |
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥9||

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।
बुद्धिर्बुद्धि मतामस्मि तेजस्तेजस्विनामहम् ||10||

बलं बलवतां चाहं कामरागविवर्जितम्।
धर्नाविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ||11||

ये चैव सात्विका भावा राजसा स्तामसाश्चये |
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ||12||

त्रिभिर्गुणमयैर्भावैभिः सर्वमिदं जगत् |
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ||13||

दैवी ह्येषागुणमयी मम माय दुरत्यया |
मामेव ये प्रपद्यन्ते मयामेतां तरन्ति ते ||14||

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।
माययाऽपहृत ज्ञाना असुरं भावमाश्रिताः ||15||

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन |
आर्तो जिज्ञासुरर्थारी ज्ञानी च भरतर्षभ ||16||

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ||17||

उदाराः सर्व एवैते ज्ञानीत्वात्मैव मे मतम् |
आस्थितः स हियुक्तात्मा मामेवानुत्तमां गतिम् ||18||

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते |
वासुदेवः सर्वमिति स महात्मा दुर्लभः ||19||

कामैस्तॆस्तॆर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः |
तं तं नियमास्थाय प्रकृत्या नियतास्स्वया ||20||

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति |
तस्य तस्यचलां श्रद्धां तामेव विदधाम्यहम् ||21||

स तया श्रद्धया युक्तः तस्याराधन मीहते |
लभते च ततः कामान् मयैव विहितान् हि तान् ||22||

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् |
देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ||23||

अव्यक्तं व्यक्ति मापन्नं मन्यन्ते मामबुद्धयः |
परं भावमजानन्तो ममाव्ययमनुत्तमम् ||24||

नाहं प्रकाशः सर्वस्य योगमायासमावृतः |
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ||25||

वेदाहं समतीतानि वर्तमानानि चार्जुन |
भविष्याणि च भूतानि मां तु वेद न कश्चन ||26||

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत |
सर्वभूतानि सम्मोहं सर्गे यान्ति परंतप ||27||

येषाम् त्वन्तगतं पापं जनानां पुण्यकर्मणाम् |
ते द्वन्द्व मोहनिर्मुक्ता भजन्ते मां दृढव्रताः ||28||

जरामरण मोक्षाय ममाश्रित्य यतन्ति ये।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ||29||

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः |
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ||30||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे विज्ञानयोगो नाम
सप्तमोऽध्यायः ||

|| om tat sat ||